________________
॥ अथ ॥ * कात्यायनस्मतिः *
--: :-- ॥ श्रीसामवेदाय नमः॥
प्रथमः खण्डः ।
अथाचाराध्यायः तत्रादौ यज्ञोपवीतकर्मप्रकरणवर्णनम् । अथातो गोभिलोक्तानामन्येषां चैव कर्मणाम् । अस्पष्टानां विधि सम्यग्दर्शयिष्ये प्रदीपवत् ॥१ त्रिवृदू वृतं कार्य तन्तुत्रयमधोवृतम् । त्रिवृत्तञ्चोपवीतं स्यात्तस्यैको ग्रन्थिरिष्यते ॥२ पृष्ठवंशे च नाभ्यां च धृतं यद्विन्दते कटिम् । तद्धार्यमुपवीतं स्यान्नातोलम्ब नचोच्छ्रितम् ॥३ सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवातश्च यत् करोति न तत्कृतम् ।।४ त्रिःप्राश्यापो द्विरुन्मृज्य मुखमेतान्युपस्पृशेत् । .. आस्यनामाभिकणांश्च नाभिवक्षःशिरोंऽशकान् ॥५