SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १३३४ याज्ञवल्क्यस्मृतिः। [तृतीयोअनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु । धर्मार्थं यश्वरेदेतच्चन्द्रस्यैति स लोकताम् ॥३२६ कृच्छकृद्धर्मकामस्तु महतीं श्रियमाप्नुयात् । यथा गुरुकतुफलं प्राप्नोति च समाहितः ॥३२७ श्रुत्वेमानृषयो धर्मान् याज्ञवल्क्येन भाषितान् । इदमूचुर्महात्मानं योगीन्द्रममितौजसम् ॥३२८ य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः। इहलोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ।।३२६ विद्यार्थी प्राप्नुयाद्विद्या धनकामोधनन्तथा । आयुस्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ।।३३० श्लोकत्रयमपि ह्यस्माद् यः श्राद्ध श्रावयिष्यति । पितृणां तस्य तृप्तिः स्यादक्षया नात्र संशयः॥३३१ ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् । वैश्योऽपि धान्यधनवानस्य शास्त्रस्य धारणात् ॥३३२ य इदं श्रावयेद्विप्रान् द्विजान् पर्वसु पर्वसु। अश्वमेधफलं तस्य तद्भवाननुमन्यताम् ॥३३३ श्रुत्वैतद्याज्ञवल्क्योऽिपि प्रीतात्मा मुनिभाषितम् । एवमस्त्विति होवाच नमस्कृत्य स्वयम्भुवे ॥३३४ इति याज्ञवल्क्यीये धर्मशास्त्रे प्रायश्चित्त प्रकरणनाम - तृतीयोऽध्यायः। इति याज्ञवल्क्यस्मृतिः समाप्ता । ॐतत्सत् --:*:--
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy