SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ sध्यायः ] प्रायश्चित्ताध्याये प्रायश्चित्तप्रकरणवर्णनम् । : पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं सहासान्तपनः स्मृतः || ३१५ पर्णौदुम्बरराजीवबिल्वपत्रकुशोदकैः । १३३३ प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ।। ३१६ तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ ३१७ एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन चैकेन पादकृच्छ्रः प्रकीर्तितः ॥ ३१८ यथाकथश्वित्रिगुणः प्राजापत्योऽयमुच्यते । अयमेवातिकृच्छ्रः स्वात् पाणिपूरानभोजिनः || ३१६ कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् | द्वादशाहोपवासेन पराकः परिकीर्तितः ।। ३२० पिण्या काचामताम्बुसकूनां प्रतिवासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥ ३२१ एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् । तुलापुरुष इत्येष ज्ञेयः पाञ्चदशाह्निकः || ३२२ तिथिवृद्धया चरेत् पिण्डान् शुक्ले शिख्यण्डसम्मितान् । एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरेन् || ३२३ जथाकथञ्चित् पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ||३२४ कुर्यात्तिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा । पवित्राणि जपेत् पिण्डान् गायत्र्या चाभिमन्त्रयेत् ॥ ३२५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy