SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १३३२ याज्ञवल्क्यस्मृतिः। [तृतीयोसहस्रशीर्षा(दि)जापी तु मुच्यते गुरुतल्पगः । गौर्देया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी॥३०४ प्राणायामशतं कायं सर्वपापापनुत्तये । उपपातकजाताना(मनिर्दिष्टस्य)सनादिष्टस्य चैव हि ॥३०५ ओङ्काराभिष्टुतं सोमसलिलं पावनं पिबेत् । कृत्वा तु (कृतोपवासन)रेतोविण्मूत्रप्राशनञ्च द्विजीत्तमः॥३०६ निशायां वा दिवा वाऽपि यदज्ञानकृतं त्वघम् । काल्यसन्ध्याकरणात्तत् सर्वं विप्रणश्यति ॥३०७ शुक्रिया(मन्त्रविशेष)रण्यकजपो गायत्र्याश्च विशेषतः । सर्वपापहरा ह्येते रुद्रकादशिनी तथा ॥३०८ यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः । तत्र तत्र तिलहोमो गायत्र्या (जप) वार्चनन्तथा ॥३०६ वेदाभ्यासरतं क्षान्तं महा(पंच)यज्ञकियारतम् । न श्पृशन्तीह पापानि महापातकजान्यपि ॥३१० वायुभक्षो दिवा तिष्ठत्रात्रिं नीत्वाप्सु सूर्य्यदृक् । जप्त्वा सहस्रं गायत्र्याः शुध्येद् ब्रह्मवधाहते ॥३११ ब्रह्मचयं दया क्षान्तिानं सत्यमकल्कता। अहिंसास्तेयमाधुर्य्यदमाश्चेति यमाः स्मृताः ॥३१२ स्नानमौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । नियमागुरुशुश्रूषाशौचाकोधप्रमातृताः ॥३१३ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । जग्ध्वा परेऽहन्युपवसेत् कृच्छ्रे सान्तपनं चरन् ॥३१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy