SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रायश्चित्ताध्याये प्रायश्चित्तप्रकरणवर्णनम्। १३२६ गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः। . खराजमेषेषु वृषो देयः क्रौञ्च बिहायनः ।।२७१ हंसश्येनकपिक्रव्याजलस्थलशिखण्डिनः । भासच हत्वा दद्याद् गामक्रयादस्तु वत्सिकाम् ॥२७२ उरगेष्वायसो दण्डः पण्डके त्रपु(माषक:)सीसकम् । कोले घृतघटो देय उष्ट्र गुञ्जा हयेऽशुकम् ।।२७३ तित्तिरौ तु तिलेद्रोणं गजादीनामशक्नुवन् । दानं दातुञ्चरेत् कृच्छ्रमेकैकस्य विशुद्धये ॥२७४ फलपुष्पान्नरसजसत्वघाते घृताशनम् । किञ्चित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके ॥२७५ वृक्षगुल्मलतावीरुच्छेदने जप्यमृतशतम् । स्यादोषधिवृथाच्छेदे क्षीराशी गोनुगोदिनम् ।।२७६ पुंश्चलीवानरखरैर्दष्टश्चोष्ट्रादिवायसैः । प्राणायाम जले कृत्वा घृतं प्राश्य विशुध्यति ।।२७७ यन्मेद्यरेत इत्याभ्यां स्कन्नं रेतोऽनुमन्त्रयेत् । स्तनान्तरं भ्र वोर्मध्यं तेनानामिकया श्पृशेत् ।।२७८ मयि तेज इतिच्छायां स्वां दृष्ट्वाम्बुगतां जपेत् । गायत्रीमशुचौ दृष्टे चापल्ये चानृतेऽपि च ।।२७६ अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम् । गईभं पशुमालभ्य नैत्यं स विशुध्यति ॥२८० भैक्षानिकायं त्यक्ता तु सप्तरात्रमनातुरः । कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ।।२८१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy