SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १३२६ याज्ञवल्क्यस्मृतिः। [तृतीयोकन्यासंदूषणन्चैव परिवेदकयाजनम् । कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥२३८ आत्मार्य च क्रियारम्मो मद्यस्त्रीनिषेवणम् । स्वाध्यायामिसुतत्यागो बान्धवत्याग एव च ।। ३६.. । इन्धनाथं दुमच्छंदः स्त्रीहिंस्रोषधिजीवनम् । हिंस्रयन्त्रविधानञ्च व्यसनान्यात्मविक्रयः॥२४० असच्छास्त्राधिगमनमाकरेष्वधिकारिता । भार्याया विक्रयश्चैषामेकैकमुपपातकम् ।।२४१ शिरः कपाली ध्वजवान् भिक्षाशी कर्म वेदयन् । ब्रह्महा द्वादशाब्दानि मितभुरु शुद्धिमाप्नुयात् ।।२४२ ब्राह्मणात्य परित्राणाद्गवां द्वादशकस्य वा । तथाश्वमेधावभृथस्नानाद्वा शुद्धिमाप्नुयात् ॥२४३ दीर्घतीब्रामयग्रस्तं ब्राह्मणं गामथापि वा। दृष्टा पथि निरातङ्क कृत्वा वा ब्रह्महा शुचिः॥२४४ आनीय विप्रसर्वस्वं हृतं घातित एव वा। तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुद्धयति ।।२४५ लोमभ्यः स्वाहेत्येवं हि लोमप्रभृति वै तनुम् । मजान्तं जुहुयाद्वापि मन्त्रैरेभिर्यथाक्रमम् ।।२४६ संग्रामे वा हतो लक्ष्यभूतः शुद्धिमवाप्नुयात् । मृतकल्पः प्रहारातों जीवन्नपि विशुद्धयति ॥२४७ अरण्ये नियतो जप्त्वा त्रिकृत्वोवेदसंहिताम् । मुच्यते वा मिताशीत्वा प्रतिश्रोतः सरस्वतीम् ॥२४८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy