________________
ऽध्यायः ] प्रायश्चित्ताध्याये प्रायश्चित्तप्रकरणवर्णनम् । १३२३
अथ प्रायश्चित्तधर्मप्रकरणवर्णनम् ।
महापातकजान् घोरान्नरकान् प्राप्य गर्हितान् । कर्मक्षयात् प्रजायन्ते महापातकिनस्त्विह ॥ २०६ मृगश्वशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति । खरपुक्क(ल्कस)शवेनानां सुरापो नात्र संशयः ॥२०७ कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । तृणगुल्मलतात्वभ्व क्रमशो गुरुतल्पगः ॥ २०८ ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः । 'हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥२०६ योषेन संवसत्येषां सप्तल्लिङ्गोऽभिजायते । ( यो येन संविपत्येषां सतल्लिङ्गोऽभिजायते ) अन्नहर्तामयावी स्यान्मूको वागपहारकः ॥ २१० धान्यमिश्रोऽतिरिक्ताङ्ग पिशुनः पूतिनासिकः । तैरहत्ते लपायी स्यात् पूतिवक्तस्तु सूचकः ॥२११ परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्ज्ज (ले)ने घोरे (देशे ) भवति ब्रह्मराक्षसः ॥ २१२ हीनजातौ प्रजायन्ते पररत्नापहारकः । पत्रशाकं शिखी हत्वा गन्ध छुच्छन्दरिः शुभान् ॥२१३ मूषिको धान्यहारी स्याद्यानमुष्ट्रः फलं कपिः । जलं लवः (अजः पशुं) पयः काको गृहकारी ह्युपस्करम् ॥२१४
मधु दंशः पलं गृध्रो गां गोधाग्निं वकस्तथा ।
श्वित्री वस्त्रं श्वा रसन्तु चीरी लवणहारकः ॥ २१५