SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम् । १३२१ ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः । तेऽपि तेनैव मार्गेण (गच्छन्ति) सत्यत्रतपरायणाः ॥१८५ तत्राष्टाशीतिसाहस्रा मुनयो गृहमेधिनः । पुनरावर्तिनो वोजभूता धर्मप्रवर्तकाः ॥१८६ सप्तर्षिनागवीथ्यन्तदेवलोकसमाश्रिताः । तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥१८७ तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । तत्रैव तावत्तिष्ठन्ति यावदाभूतसंप्लवम् ॥१८८ यवो वेदाः पुराणञ्च विद्योपनिषदस्तथा। श्लोकाः सूत्राणि भाष्याणि यच्च किञ्चन वाङ्मयम् ॥१८६ वेदानुवचनं यज्ञो ब्रह्मचर्य तो दमः । श्राद्धोपवासः स्वातन्त्र्यमात्मनो ज्ञानहेतवः ॥१६० स ह्याश्रम(निदिध्यास्यः)विजिज्ञास्यः समस्तैरेवमेव तु । द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ॥१६१ य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः। उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥१६२ क्रमात्ते सम्भवन्त्यचिरहः शुक्ल तथोत्तरम् । अयनं देवलोकञ्च सवितारं सवैद्युतम ॥१६३ . ततस्तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् । करोति पुनरावृत्तिस्तेषामिह न विद्यते ।।१६४ यशेन तपसा दानैर्य हि स्वर्गजितो नराः । धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ॥१६५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy