SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ [ ८ १३२० याज्ञवल्क्यस्मृतिः। [तृतीयोंअहङ्कारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः।। इन्द्रियान्तरसञ्चार इच्छाधारणजीविते ॥१७४ स्वर्गः स्वप्नश्च भावानां प्रेणं मनसो गतिः । निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम् ।।१७५ यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः । तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः ॥१७६ बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च । अहङ्कारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥१७७ अव्यक्तमात्मा क्षेत्राः क्षेत्रस्यास्य निगद्यते । ईश्वरः सर्वभूतस्थः सन्नसन् सदसञ्च (सः)यः ।।१७८ बुद्ध रुत्पत्तिरब्यक्तात्ततोऽङ्कारसम्भवः । तन्मात्रादीन्यहङ्कारा(तस्मात्खादीनिजायन्त)देकोत्तरगुणानि च ॥१७६ शब्दः स्पर्शश्व रूपश्च रसो गन्धश्च तद्गुणाः। यो यस्मानिःसृतश्चैषां (यो यस्मिन्न त्रिततेस्पी)सतस्मिन्नेव लीयते॥१८ यथात्मानं सृजत्यात्मा तथा वः कथितो मया । विपाकान्त्रिप्रकाराणां कर्मणामीश्वरोऽपि सन् ॥१८१ सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः । रजस्तमोभ्यामाविष्टश्चक्रवद् भ्राम्यते हि सः॥१८२ अनादिरादिमांश्चैव स एव (य एष) पुरुषः परः। । लिङ्गन्द्रियग्राह्यरूपः सविकार उदाहृतः॥१८३ पिरयाणोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् । तेनाग्रिहोत्रिणो यान्ति स्वर्गकामा (प्रजाकामा)दिवं प्रति ॥१८४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy