________________
ऽध्यायः] प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम्। १३१६
कालकत्मिबोजाना दोषैर्मातस्तथैव च । गर्भस्य वैकृतं दृष्टम(ना)ङ्गहीनादि जन्मतः ॥१६३ अहङ्कारेण मनसा गत्या कम्फलेन च । शरीरेण च नात्मायं मुक्तपूर्वः कथञ्चन ॥१६४ दाता सत्यः क्षमी प्राज्ञः शुभकर्मा जितेन्द्रियः। तपस्वी योगशीलश्च न रोगैः परिभूयते । वाधारस्नेहयोगाद् यथा दीपस्य संग्थितिः। विक्रियापि च दृष्टवमकाले प्राणसंशयः ॥१६५ अनन्ता रश्मयस्तस्य दोपवद् यः स्थितो हृदि । सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः ।।१६६ . . ऊर्ध्वमेकः स्थितस्तेषां यो भित्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ।।१६७ यदस्यान्यद्रश्मिशतमूर्द्ध मेव व्यवस्थितम् । तेन देवशरीराणि स धामानि प्रपद्यते ॥१६८ येऽनेकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः । इह कोपभोगार्थस्तैः संसरति सोऽवशः ॥१६६ वेदैः शास्त्रैः सविज्ञानर्जन्मना मरणेन च । आध्या गत्या तथागत्या सत्येन ह्यनृतेन च ।।१७० श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः। निमितशकुनज्ञानग्रहसंयोगजैः फलैः ।।९७१ तारानक्षत्रसञ्चारैर्जागरैः स्वप्नजैरपि। आकाशपवनज्योतिर्जलभूतिमिरैस्तथा ॥१७२ मन्वन्तरैर्युगप्राप्त्या मन्त्रौषधिबलैरपि । वित्तात्मानं विद्यमानं कारणं जगत(सदास्तथा ।।१७३