________________
ऽध्यायः ] प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम् । १३१७
मलिनो हि यथादर्शी रूपालोकस्य न क्षमः । तथाऽविपककरण आत्मा ज्ञानस्य न क्षमः ॥ १४१ कटूर्वारौ यथाऽपको मधुरः सन् रसोऽपि न । प्राप्यते ह्यात्मनि तथा नापक्ककरणे ज्ञता ॥४२ सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् । योगी युक्तश्च सर्वेषां यो नावाप्नोति वेदनाम् ॥१४३ आकाशमेक हि यथा घटादिषु पृथग्भवेत् । तथात्मैोऽप्यनेकस्तु जलाधारेष्विवांशुमान् ॥१४४ ब्रह्मखानिलतेजांसि जलं भूश्वति धातवः ।
इमे लोका एप चात्मा तस्माच्च सचराचरम् ॥ १४५ गृह (मृद्) दण्डचक्रसंयोगात् कुम्भकारो यथा घटम् । करोति तृणकाष्ठैगृहं वा गृहकारकः || १४६ हेममात्रमुपादय रूप्यं (रूपं ) वा हेमकारकः । निजलालासमायोगात् कोशं वा कोशकारकः ॥ १४७ कारणान्येवमादाय तासु तास्विह योनिषु ।
सृजत्यात्मानमात्मा च सम्भूय करणानि च ॥ १४८ महाभूतानि सत्यानि यथात्मापि तथैव हि । कोऽन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति ॥ १४६ वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् । अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ १५०
जातिरूपवयोवृत्तिविद्यादिभिरहङ्कृतः ।
शब्दादिविषयो (सक्तः) योगं कर्म्मणा मनसा गिरा ।। १५१