________________
ऽध्यायः] प्रायश्चित्ताध्यायः यतिधर्मप्रकरणवर्णनम्। १३१५
मोहजालमपास्येदं पुरुषो दस्यते हि यः। सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रशः ॥११६ स आत्मा चैव यज्ञश्व विश्वरूपः प्रजापतिः । विराजः सोम)ऽन्नरूलेण यज्ञत्वमुपगच्छति ॥१२० । यो द्रव्यदेवतात्यागसम्भूतो रस उत्तमः । देवान् सन्तर्प्य स रसो यजमानं फलेन च ॥१२१ संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः । भृग्यजु सामविहितं सौर धामोपनीयते ॥१२२ . स्वमण्डलादसौ सूर्यः सृजत्यमृतमुत्तमम् । यजन्म सर्वभूतानामशनानशनात्मनाम् ॥१२३ । तस्मादनात)नात पुनर्यज्ञ. पुनरनं पुनः क्रतुः । एवमवानाद्यन्तं चक्रं सम्परिवर्तते ॥१२४ अनादिरात्मा सम्भूतिर्विद्यते नान्तरात्मनः । समचायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ।।१२५ सहस्त्रात्मा मया यो व आदिदेव उदाहृतः। मुखबाहूरुपजाः स्युस्तस्य वर्णा यथाक्रमात् ॥१२६
पृथिवी पादतरतत्य शिरशो द्यौरजायत । नस्तः प्राणा दिशः श्रोत्रात् स्पर्शा(त्वचो)द्वायुर्मुखाच्छिखी ॥१२७ मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः । जघनादन्तरिक्षञ्च जगच्च सचराचरम् ॥१२८ यद्येवं स कथं ब्रह्मन् पापयोनिषु जायते । ईश्वरः स कथं भावरनिष्टः संप्रयुज्यते ॥१२६ ८३