SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १३१२ याज्ञवल्क्यस्मृतिः। तृतीयोषष्ठ्यङ्गुलीनां द्वे पाण्योगुल्फेषु च चतुष्टयम् । चत्वार्य्यरनिकास्थीनि जङ्घयोस्तावदेव तु ।।८६ द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे। . . अक्षः स्थालूषके श्रोणीफलके च विनिर्दिशेत् ॥८७ भगास्थेकं तथा पृष्ठे चत्वारिंशच्च पञ्च च। . ग्रीवा पञ्चदशास्थिः स्याजवेकैकं तथा हनुः ॥८८ तन्मूले द्वे ललाटास्थिगण्डनासाधनास्थिका । पावकाः स्थालकैः सार्द्धमवुदेश्च द्विसप्ततिः ॥८६ द्वौ शङ्खको कपालानि चत्वारि शिरसस्तथा । उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ।।१० गन्धरूपरसस्पर्शशब्दाश्व विषयाः स्मृताः। नासिका लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च ॥११ हस्तौ पायुरुपस्थश्च वाक्पादौ चेति पञ्च वै । कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् ॥१२ नाभिरोजो गुढं शुक्र शोणितं शङ्खको तथा । मूर्द्धासकण्ठहृदयं प्राणस्यायतनानि तु ॥६३ वपावसावहननं नाभिः क्लोम यकृत् प्लिहा। क्षुद्रान्त्रं वकको वस्तिः पुरीषाधानमेव च ॥६४ आमाशयोऽथ हृदयं स्थूलान्त्रं गुदमेव च । उदरञ्च गुदः कोष्ठ्यो विस्तारोऽयमुदाहृतः ॥६५ कनीनिके साक्षिकूटे शष्कुली कर्णपत्रको । कर्णौ शङ्खौ भ्रवौ दन्तावेष्टावोष्ठौ ककुन्दरौ ॥१६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy