________________
१३१० याज्ञवल्क्यस्मृतिः। [तृतीयो
भवो जातिसहस्रेषु प्रियाप्रिय विपर्ययः। ध्यानयोगेन संपश्येत् सूक्ष्म आत्मात्मनि स्थितः ॥६४ नाश्रमः कारणं धर्मे क्रियमाणो भवेद्धि सः। अतो यदात्मनोऽपथ्यं परस्य न तदाचरेत् ॥६५ सत्यमस्तेयः मक्रोधो ह्रीः शौचं धी तिर्दमः । संयतेन्द्रियता विद्या धर्मः सार्व उदाहृतः ॥६६ निःसरन्ति यथा लोहपिण्डात्तस्मा। स्फुलिङ्गकाः । सकाशात्मनस्तद्वदात्मनः प्रभवति हि ॥६७ तत्रात्मा हि स्वयं किञ्चित् कर्म किञ्चित् स्वभावतः । करोति किञ्चिदभ्यासाद्धर्माद्धर्माभयात्मकम् ॥६८ निमित्तमक्षरः कर्ता बोद्धा ब्रह्म गुणी वशी। अजः शरीरग्रहणात् स जात इति कीर्त्यते ॥६६ सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् । सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि ॥७० आहुत्याप्यायते सूर्यस्तस्मावृष्टिरथौषधः।। तदन्नं रसरूपेण शुक्र(क्ल)त्वमुपगच्छति ॥७१ स्त्रीपुंसयोस्तु संयोगे विशुद्ध शुक्रशोणिते। पञ्चधातु स्वयं षष्ठानादत्ते युगपत् प्रभुः ।।७२ इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः । धारणा प्रेरणं दुःखमिच्छाहंकार एव च ॥७३ प्रयत्न आकृतिवर्णः स्वरद्वेषौ भवाभवौ । तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः ।।७४