________________
ऽध्यायः] प्रायश्चित्ताध्यायः आपद्धर्मवर्णनम्। १३०७
___ अथापद्धर्मप्रकरणवर्णनम् । क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः। निस्तीर्य तामथात्मानं पावयित्वा न्यसेत् पथि ॥३५ । फलोपलक्षौमसोममनुष्यापूपवीरुधः । तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥३६ शस्त्रासवं मधूच्छिष्टं मधु लाक्षाश्च वर्हिषः। मृश्चर्मपुष्पकुतपकेशतक्रविषक्षितीः ॥३७ कौशेयनीलीलवणमांसैकशफसीसकान् । शाकाद्रोषधिपिण्याकपशुगन्धांस्तथैव च ॥३८ वैश्यवृत्यापि जीवन्नो विक्रीणीत कदाचन । धर्मार्थ विक्रयं नेयास्तिला धान्येन तत्समाः ॥३६ लाक्षालवणमांसानि पतनीयानि विक्रये । पयोदधि च मद्यञ्च हीनवर्णकराणि च ॥४० आपद्गतः सम्प्रगृह्णन भुञ्जानो वा यतस्ततः। न लिप्यतेनसा विप्रोज्ज्वलनार्कसमो हि सः॥४१ कृषिः शिल्पं भृतिविद्या कुसीदं शकटं गिरिः। सेवाऽनूपं नृपो भैक्षमापत्तौ जीवनानि तु ॥४२ बुभुक्षितस्यहं स्थित्वा धान्य(धन)मब्राह्मणाद्धरेत् । प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥४३ - तस्य. वृत्तं कुलं शीलं श्रुतमध्ययनं तपः। ज्ञात्वा राजा कुटुम्बञ्च धा वृत्ति प्रकल्पयेत् ।।४४
__इत्यापद्धर्मप्रकरणवर्णनम् ।