SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [तृतीयो १३०६ । याज्ञवल्क्यस्मृतिः। महीपतीनां नाशौचं हतानां विद्युता तथा । गोब्राह्मणार्थे संग्रामे यस्य नेच्छति भूमिपः ।।२७ ऋत्विजां दीक्षितानाश्च यज्ञियं कर्म कुर्वताम् । सत्रिवतिब्रह्मचारिदातृब्रह्मविदां तथा ॥२८ दाने विवाहे यशे च संग्रामे देशविप्लवे । आपद्यपि च कष्टायां सद्यः शौचं विधीयते ॥२६ उदक्याशौचिभिः मायात् संस्पृष्टस्तैरुपस्पृशेत् । अब्लिङ्गानि जपेञ्चैव सावित्री मनसा सकृत् ।।३० कालोऽग्निः कर्म मृद्वायुमनोज्ञानं तपो जलंम् । पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥३१ अकार्यकारिणां दानं वेगो नद्यास्तु शुद्धिकृत। शोध्यस्य मृञ्च तोयञ्च संन्यासो वै द्विजन्मनाम् ॥३२ तपो वेदविदां क्षान्तिर्विदूषां वर्मणो जलम् । जपः प्रच्छन्नपापानां मनसः सत्यमुच्यते ॥३३ भूतात्मनस्तपोविद्ये बुद्धर्ज्ञानं विशोधनम् । क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥३४ . इत्याशौचप्रकरणवर्णनम् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy