________________
१२६८ . याज्ञवल्क्यस्मृतिः। [द्वितीयो
अर्घप्रक्षेपणादिशं भागं शुल्कं नृपो हरेत्। . व्यासिद्धं राजयोग्यश्च विक्रीतं राजगामि तत् ॥२६४ मिथ्या वदन् परीमाणं शुल्कस्थानादपासरन्। दाप्यस्त्वष्टगुणं यश्च स व्याजक्रयविक्रयी ।।२६५ तारिकः स्थल शुल्कं गृहन् दाप्यः पणान् दश । ब्राह्मणप्राविवेश्यानामेवदेवानिमन्त्रणे ॥२६६ देशान्तरगते प्रेते द्रव्यं दायादवान्धवाः । ज्ञातयो वा हरेयुस्तदागतस्तविना नृपः ।।२६० जिमं त्यजेयुनिर्लाभमशक्तोऽन्येन कारयेत् । अनेन विधिनाख्यातमृत्विक्कर्षककर्मिणाम् ॥२६८
इति सम्भूयसमुत्थानप्रकरणवर्णनम् ।
अथ स्तेयप्रकरणवर्णनम् । ग्राहकैह्यते चौरो लोछोणाथ पदेन वा । पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥२६६ अन्येऽपि शङ्कया ग्राह्या ज्ञातिनामादिनिह्नवैः । द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः ॥२७० परद्रव्यगृहाणा च प्रच्छका गूढचारिणः । निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः॥२७१