________________
ऽध्यायः] विक्रीयासंप्रदानं सम्भूयसमुत्थानप्रकरणश्च । १२६७
अथ विक्रीयासंप्रदानप्रकरणम् । गृहीतमूल्यं यः पण्यं क्रेतुनव प्रयच्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिशां गते ॥२५७ विक्रोतमपि विक्रेयं पूर्वक्रेतर्यगृह्णति । हानिश्चेत् क्रेतृदोषेण ऋतुरेव हि सा भवेत् ॥२५८ राजदेवोपघातेन पण्ये दोषमुपागते । हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ।।२५६ अन्यहस्ते च विक्रीतं दुष्टं वाऽदुष्टवद् यदि । विक्रीणीत दमस्तत्र मूल्यात्तु द्विगुणो भवेत् ॥२६० क्षय वृद्धिश्च बणिजा पण्यानां तु विजानता। क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥२६१
इति विक्रीयासम्प्रदानप्रकरणवर्णनम् ।
अथ सम्भूयसमुत्थानप्रकरणवर्णनम् । समवायेन वणिजां लाभार्थ कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा सम्विदाकृता ॥२६२ प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितम् । स तदद्याद्विप्लवाच्च रक्षिता दशमांशभाक्॥२६३