________________
१२६६
याज्ञवल्क्यस्मृतिः। [द्वितीयोअबन्ध्यं यश्च बध्नाति बन्ध्यं यश्व प्रमुञ्चति । अप्राप्तव्यवहारञ्च स दाप्यो दण्डमुत्तमम् ॥२४६ मानेन तुलया वाऽपि योऽशमष्टमकं हरेत् । .. दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥२४७ भेषजस्नेहलवणगन्धधान्यगुडादिषु । पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस्तु षोडश ।।२४८ मृचर्ममणिसूत्रायः काष्ठवल्कलवाससाम् । अजातौ जातिकरणे विक्रयाऽत्रगुणो दमः ॥२४६ समुद्गपरिवर्तञ्च सारभाण्डञ्च कृत्रिमम् । आधानं विक्रयं वाऽपि नयतो दण्डकल्पना ॥२५० भिन्ने पणे तु पञ्चाशत् पणे तु शतमुच्यते । द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ।।२५१ सम्भूय कुर्वतामघ साबाधं कारुशिल्पिनाम् । अर्घस्य ह्रासं वृद्धिं वा साहस्रो दम उत्तमः ॥२५२ सम्भूय वणिजां पण्यमनघणोपरुन्धताम् । विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ।।२५३
राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः। क्रयो वा (विक्रयोवापि)निःस्रवस्तस्माद्वणिजां लाभतः स्मृतः।।२५४
स्वदेशपण्ये तु शतं वणिग्गृह्णीत पञ्चकम् । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥२५५ पण्योस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् । अर्घोऽनुग्रहकृत् कार्यः क्रतुर्विक्रतुरेव च ।।२५६
इति साहसप्रकरणवर्णनम्।