SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १२६४ याज्ञवल्क्यस्मृतिः। [द्वितीयोदुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरन्तथा । षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम्।।।२२७ दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा। दण्डः क्षुद्रपशूनाञ्च द्विपणप्रभृतिक्रमात् ।।२२८ लिङ्गस्य च्छेदने मृत्यौ मध्यमो मूल्यमेव च । महापशूनामेतेषु स्थानेषु द्विगुणो दमः ॥२२६ प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे। उपजीव्यद्रुमाणाच विंशतेद्विगुणो दमः ॥२३० चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये। जातनुमाणां द्विगुणो दमो वृक्षेऽथ विश्रुते ॥२३१ गुल्मगुच्छापलताप्रतानौषधिवीरुधाम् । पूर्वस्मृतादर्द्ध दण्डः स्थानेषूक्तेषु कर्त्तने ।।२३२ इति दण्डपारुष्यप्रकरणवर्णनम् । अथ साहसप्रकरणवर्णनम् । सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतम्। तन्मूल्याद्. द्विगुणो दण्डो निहवे तु चतुर्गुणः ।।२३३ यः साहसं कारयति स दाप्यो द्विगुण दमम् । यश्चैवमुक्त्वाहं दाता कारयेत् स चतुर्गणम् ॥२३४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy