________________
ऽध्यायः] व्यवहाराध्यायः दण्डपारुष्यप्रकरणवर्णनम् । १२६३
भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः । अमेध्यपाणिनिष्ठ्य तस्पर्शने द्विगुणः स्मृतः ॥२१६ समेष्वेवं परस्त्रीषु द्विगुणन्तूत्तमेषु च । हीनेष्वर्द्ध दमो मोहमदादिभिरदण्डनम् ।।११७ विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु । उद्गुणे प्रथमो दण्डः संस्पर्श तु तदर्चिकः ।।२१८ उद्गूणे हस्तपादे च दशविंशतिको दमौ । परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥२१६ पादकेशांशुककरालुञ्छनेषु पणान् दश । पीडाकपा(जना)शुकावेष्ट्यपादाध्यासे शतं दमः । २२० शोणितेन विना दुःखं कुर्वन् काष्ठादिभि नरः। द्वात्रिंशतं पणान् दाप्यो द्विगुणं दर्शनेऽसृजः ॥२२१ करपाददतोभङ्गे च्छेदने कर्णनासयोः । मध्यो दण्डो व्रणोद्भदे मृतकल्पहते तथा ।।२२२ चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसक्थ्नाञ्च भने मध्यमसाहसः ॥२२३ एक नतां बहूनाञ्च यथोक्ताद् द्विगुणो दमः । कलहापहृतं देयं दण्डश्च द्विगुणः स्मृतः ॥२२४ दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् । दाप्यो दण्डश्च यो यस्मिन् कलहे समुदाहृतः ॥२२५ अभिघाते तथाच्छेदे भेदे कुड्यावपातने । पणान् दाप्यः पञ्च दश विंशतिन्तद्वयं तथा ॥२२६