________________
१२६२
याज्ञवल्क्यस्मृतिः। [द्वितीयोअभिगन्तासि भगिनीं मातरं वा तवेति च । शपन्तं दापयेद्गाजा पञ्चविंशतिकं दमम् ।।२०८ अर्दोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः ॥२०६ प्रतिलोम्यापवादेषु द्विगुणा(चतुः स्त्रिगुणा दमाः । वर्णानामानुलोम्येन तस्मादद्धि हानतः ॥२१० बाहुप्रीवानेत्रसक्थिविनाशे वाचिके दमः। . सत्यस्तदर्द्धिकः पादनासाकर्णकरादिषु ॥२११ अशक्तस्तु वदन्नेवं दण्डनीयः पणान् दश । तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥२१२ पतनीये कृते क्षेपे दण्ड्यो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥२१३ विद्यनृपदेवानां क्षेप उत्तमसाहसः। मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥२१४
इति वाक् पारुष्यप्रकरणवर्णनम् ।
अथ दण्डपारुष्यप्रकरणवर्णनम् । असाक्षिकहते चिह्नयुक्तिभिश्चागमेन च । दृष्टव्यो व्यवहारस्तु कूटचिह्नकृताद् भयात् ।।२१५ यत्रनोक्तो दमः सर्वः प्रमादेन महात्मभिः । तत्र कार्य परिज्ञाय कर्तव्यं दण्डधारणम् ।