________________
१२८६ . याज्ञवल्क्यस्मृतिः। [द्वितीयो.
स्वामिने योऽनिवेयेव क्षेत्रे सेतुं प्रवर्तयेत्। उत्पने स्वामिनो भोगस्तदभावे महीपतेः॥१६० फालाहतमपि क्षेत्रं यो न कुर्यान कारयेत् । संप्रदाप्यः कृष्टफलं (अकृष्टशद) क्षेत्रमन्येन कारयेत् ॥१६१
इति सीमाविवादप्रकरणवर्णनम् ।
अथ स्वामिपालविवादप्रकरणवर्णनम् । माषानष्टौ तु महिषी शस्यघातस्य कारिणी। . दण्डनीया तन्तु गौस्तदर्द्ध मजाविकम् ॥१६२ मक्षयित्वोपविष्टानां ययोक्ताद् द्विगुणों दमः। सममेषां विवीतेऽपि खरोष्ट्र महिषीसमम् ॥१६३ . यावच्छस्यं विनश्येत तावत् क्षेत्री फलम् लभेत्। गोपा(पालास्ताड्यस्तु गोमी तु पूर्वोक्तं दण्डमर्हति ॥१६४ पथि प्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डमर्हति ॥१६५. महोक्षोत्सृष्टपशवः सूतिकागन्तु(कीचगौः)कादयः । पालो येषान्तु ते मोच्या देवराजपरिप्लुताः॥१६६ यथापिताम् पशून् गोपः सायं प्रत्यर्पयेत्तथा । प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ॥१६७