SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ व्यवहाराध्याय सीमाविवादप्रकरणम् । विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः । विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ॥१५२ इति दायविभागप्रकरणवर्णनम् । ऽध्यायः ] १२८५ अथ सीमाविवादप्रकरणवर्णनम् । सीनो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । गोपाः सीम्नः कृषाणोऽन्ये सर्वे च वनगोचराः ॥ १५३ नयेयुरेतैः सीमान्तं स्थूलाङ्गारतुषद्रुमैः । सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षितम् ॥१५४ सामन्ता वा समप्रामाश्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ १५५ अनृते च पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । अभावे ज्ञानचिह्नानां राजा सीम्नः प्रवर्तिता ॥१५६ आरामायतनग्रामनिपानोद्यानवेश्मसु । एष एव विधिर्ज्ञेयो वर्षाम्बुप्रवहादिषु ॥ १५७ मर्यादायाः प्रभेदे तु सीमातिक्रमणे तथा । क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ।। १५८ न निषेव्योऽल्पबाधस्तु सेतुः कल्याणकारकः । परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥१५६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy