SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२८४ याज्ञवल्क्यस्मृतिः। _ [द्वितीयोसंसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः। दद्याचोपहरेदंशं जातस्य च मृतस्य च ॥१४१ अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्ट्यपि चादद्यात् संसृष्टो नान्यमातृजः ॥१४२ क्लीवोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः । अन्धोऽचिकित्स्यरोगी च भर्त्तव्याः स्युनिरंशकाः ॥१४३ औरसाः क्षेत्रजास्तेषां निर्दोषा भागहारिणः । सुताश्चैषां प्रभर्त्तव्या यावद्वै भर्तृसात्कृताः॥१४४ अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥१४५ पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतम् ।। आधिवेदनिकाद्यञ्च स्त्रीधनं परिकीर्तितम् ॥१४६ बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव वा। अतीतायामप्रजसि बान्धवास्तवाप्नुयुः ॥१४७ अप्रजः स्त्रीधनं भतुर्बाह्मादिषु चतुलपि । दुहितणां प्रसूता चेत् शेषेषु पितृगामि तत् ॥१४८ दत्त्वा कन्यां हरन् दण्ड्योऽव्ययं दद्याच सोदयम् । मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ॥१४६ दुर्भिक्षे धर्मकार्ये च व्याधौ सम्प्रतिरोधके । गृहीतं स्त्रीधनं भर्त्ता न स्त्रियै दातुमर्हति ॥१५० अधिविन्नस्त्रिये दद्यादाधिवेदनिकं समम् । .न दत्तं स्त्रीधनं यस्यै दत्ते त्वद्धं प्रकीर्तितम् ॥१५१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy