________________
ऽध्यायः] व्यवहाराध्यायःदायविभागप्रकरणवर्णनम्। १९४५
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः। उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः॥१३० औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोगेणेतरेण वा ।।२३१ गृहे प्रच्छन्न उत्पन्नो मूढजस्तु सुतो मतः । कानीनः कन्यकाजातो मातामहमुतोमतः॥१३२ अक्षतायां शतायां वा जातः पौनर्भवस्तथा। दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥१३३ क्रीतस्तु ताभ्यां विक्रीतः कृत्रिमस्तु स्वयं कृतः । दत्तात्मा तु स्वयं दत्तो गर्ने विनः सहोढजः ॥१३४ उत्सृष्टो गृह्यते यस्तु सोऽपबिद्धो भवेत् सुतः। पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः ॥१३५ सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । जातोऽपि दास्यां शूद्रेण कामतोंशहरो भवेत् १३६ मृते पितरि कुयुस्तं भ्रातरस्त्वर्द्धभागिनम् । अभ्रातृको हरेत्सवं दुहितृणां सुताहते ॥१३७ पनी दुहितरश्चैव पितरौ भ्रातरस्तथा। तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ॥१३८ एषामनावे पूर्वस्य धनभागुत्तरोत्तरः। . स्वर्यातस्य हापुत्रस्य सर्ववर्णेष्वयं विधिः ॥१३६ वानप्रस्थयतिब्रह्मचारिणामृक्थभागिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्राओकतीथिनः ॥१४०