________________
१२८० याज्ञवल्क्यस्मृतिः। [प्रथमो
तुला स्त्रीबालवृद्धा(तीन्धपङ्गुब्राह्मणरोगिणाम् । अमिर्जलं वा शूद्रस्य यवाः सप्त विषस्य च ॥१८० नासहस्राद्धरेत् फालं न विषं न तुला तथा । नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा ॥१०१ सहस्रार्थे तुलादीनि कोशमप्लेऽपिकारयेत् । पश्चाश दापयेच्छुद्धमशुद्धो दण्डभाग्भवेत् ।। तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो लेखाः कृत्वावतारितः ॥१०२ त्वं तुले ! सत्यधामासि पुरा देवैर्विनिर्मिता। तत्सत्यं वद कल्याणि ! संशयान्मां विमोचय ॥१०३ यद्यस्मि पापकृन्मात ! स्ततो मां त्वमधो नय । शुद्धवेद् गमयोध्वं मां तुलामित्यभिमन्त्रयेत् ॥१०४ करो विमृदितत्रीहेर्लक्षयित्वा ततो न्यसेत्। संतश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् ॥१०५ त्वमग्ने ! सर्वभूतानामन्तश्चरसि पावक !। साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम ॥१०६ तस्येत्युक्तवतो लोहं पञ्चाशत्पलिक समम् । अग्निवणं न्यसेत्पिण्डं (क्षिप्र)हस्तयोरुभयोरपि ॥१०७ स तमादाय सप्तैव मण्डलानि शनैव्रजेत् । षोडशाङ्गुलिकं ज्ञेयं मण्डलं तावदन्तरम् ॥१०८ मुक्ताग्नि मदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । अन्तरा पतिते पिण्डे सन्देहो वा पुनहरेत् ॥१०६