SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [द्वितीयो १२७८ याज्ञवल्क्यस्मृतिः। वर्णिनान्तु बधो यत्र तत्र साक्ष्यनृतं वदेत् । सत्पावनाय कर्तव्यश्चरुः सारस्वतो द्विजैः ।।८५ इति साक्षिप्रकरणम् ॥ ॥ अथ लिखितप्रकरणम् ॥ यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यं वा साक्षिमत् कार्य तस्मिन् धनिकपूर्वकम् ॥८६ समामासतदर्धाहोनामजातिस्वगोत्रकः । सब्रह्मचारीकात्मीयपितृनामादिचिह्नितम् ।।८७ समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरिलेखितम् ॥८८ साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम्। अत्राहममुकः साक्षी लिखयुरिति ते समाः॥८९ अलिपिज्ञ ऋणी यः स्यात् स्वमतं लेखयेत् तु सः । साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपगः ॥ उभयाभ्यर्थितेनेदन्मया ह्यमुकसूनुना । लिखितं त्वमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥६० विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितन्तु यत् । तत्प्रमाणं ऋतं लेख्यं बलोपधिकृताहते ॥९१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy