________________
ऽध्यायः ] व्यवहाराध्यायःसाक्षीप्रकरणविधिवर्णनम्। १२७७
साक्षिणः श्रावयेद्वादिप्रतिवादिसमोपगान् । ये पातककृता लोका महापातकिनान्तथा ॥७५ अनिदानाञ्च ये लोका ये च स्त्रीबालघातिनाम्। तान् सर्वान् समवाप्नोति यः साक्ष्यमनृतं वदेत् ॥७६ सुकतं यत्वया निश्चिजन्मान्तरशतैः कृतम् । तत्सवं तस्य जानीहि यं पराजयसि यं मृषा ७७ अब्रुवन् हि नरः साक्ष्यमृणं स दशबन्धकम् । राज्ञा सर्व प्रदाप्यः स्यात् षट्चत्वारिंशकेऽहनि ।।७८ न ददाति च यः साक्ष्यं जानन्नपि नराधमः । स कूटसाक्षिणां पापस्तुल्योदण्डेन चैव हि ॥७६ द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ।।८० यस्योचुः साक्षिणः सत्यां प्रतिज्ञा स जयी भवेत् । अन्यथावादिनो यस्य ध्रुवं तस्य पराजयः॥८१ उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः। द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ८२ पृथक् पृथक् दण्डनीयाः कूटकृत् साक्षिणस्तथा । विवादाद्विगुणं द्रव्यं . . विवास्यो ब्राह्मणः स्मृतः ।।८३ यः साक्ष्यं श्रावितोऽन्येननिह्न ते तत्तमोवृतः। स दाप्योऽष्टगुणं द्रव्यं ब्राह्मणन्तु विवासयेत् ॥८४