________________
ऽध्यायः] व्यवहाराव्यायः, उपनिधिप्रकरणवर्णनम् । १९७५
आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते । काले कालकृतं नश्येत् फलभोग्यो न नश्यति ॥५६ गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ हापिते । नष्टो देयो विनष्टश्च देवराजकृताहते ॥६० आधेः स्वीकरणात् सिद्धीरक्ष्यमाणोऽप्यसारताम् । यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥६१ चरित्रवन्धककृतं सवृद्ध्या दापयेद्धनम् । सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥६२ उपस्थितस्य मोक्तव्याधिस्तेनोऽन्यथा भवेत् । प्रयोजकेऽसति धनं कुले न्यस्याधिमाप्नुयात् ॥६३ तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः । विनाधारणकाद्वापि विक्रणीत स साक्षिकम् ॥६४ यदा तु द्विगुणीभूतमृणमाधौ तदा खलु । मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥६५
इति ऋणादानप्रकरणम् ।
अथ उपनिधिप्रकरणम् । वासनस्लमनाख्याय हस्तेऽन्यस्य यदर्पितम् । द्रव्यं तदोपनिधिकं प्रतिदेयं तथैव तत् ॥६६