________________
ज्यायः] व्यवहाराध्यायःऋणादानप्रकरणवर्णनम्। १२७३
अथ ऋणदानप्रकरणम्। अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके। . वणक्रमाच्छतं द्विखिश्चतुः पञ्चकमन्यथा ॥३८ कान्तारगास्तु दशकं सामुद्राविंशकं शतम् । दधुर्वा स्वकृतां वृद्धि सर्वे सर्वासु जातिषु ॥३६ सन्ततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा। वनधान्यहिरण्यानां चतुनिद्विगुणाः स्मृताः ।।४० प्रपन्न साधयन्नथं न वाच्यो नृपतेर्भवेत् । साध्यमानो नृपं गच्छन दण्ड्यो दाप्यश्च तद्धनम् ।।४१ गृहीता तु क्रमाद्दाप्यो धनिनामधमर्णिकः । दत्त्वा तु ब्राह्मणायेव नृपतेस्तदनन्तरम् ॥४२ राज्ञाधमणिकोदाप्यः साधिताद्दशकं शतम् । पञ्चकश्च शतं दाप्यः प्राप्तार्थों धुत्तमर्णकः ॥४३ हीनजाति परिक्षीण मृणार्थ कम कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ।।४४ दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । मध्यस्वस्थापितं तत्स्याद्वर्द्ध ते न ततः परम् ॥४५ अविभक्तैः कुटुम्बार्थे यहणश्च कृतं भवेत् । दास्तदृक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥४६ न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्वीकृतं तथा ॥४७