________________
१९६८ याज्ञवल्क्यस्मृतिः।
[प्रथमोअधर्मदण्डनं स्वर्गकीर्ति लोकविनाशनम् । सम्यक् च दण्डनं राज्ञः स्वर्गकीर्ति जयावहम् ॥३५७ अपि भ्राता सुतोऽयों वा श्वशुरो मातुलोऽपि वा। नादण्ड्यो नाम राज्ञोऽस्ति धाद्विचलितः स्वकात् ॥१५८ यो दण्डयान् दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत्। . इष्टं स्यात् क्रतुभिस्तेन सहस्रशतदक्षिणैः ।।३५६ इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । व्यवहारान् स्वयं पश्येत् सभ्यः परिवृतोऽन्वहम् ॥३६० कुलानि जातीः श्रेणीश्च गणान् जानपदांस्तथा। स्वधर्माचलितानाजा विनीय स्थापयेत् पथि ॥३६१ जालसूर्यमरीचिस्थं त्रसरेणूरजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥३६२ गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोड़श ॥३६३ पलं सुवर्णाश्चत्वारः पञ्च वाऽपि प्रकीर्तितम्। द्वे कृष्णले रूप्यमाषोधरणं षोड़शैव ते ॥३६४ शतमानस्तु दशभिर्धरणैः पलमेव च । निष्कः सुवर्णाश्चत्वारः कार्षिकस्तानिकः पणः ॥३६५ साशीतिः पणसाहस्री दण्ड उत्तमसाहसः। तदद्धं मध्यमः प्रोक्तस्तदर्द्ध मधमः स्मृतः ॥३६६ धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो बधस्तथा । योज्या व्यस्ताः समस्ता वा अपराधवशादिमे ॥३६७