SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ऽध्याकः] आचाराध्यायःराजधर्मप्रकरणवर्णनम्। १९६७ उपायाः साम दानश्च भेदो दण्डस्तथैव । सम्यक् प्रयुक्ताः सिद्ध युदण्डस्त्वगतिका गतिः ॥३४६ सन्धिश्च विग्रहं यानमासनं संश्रयं तथा। द्वैधीभावं गुणानेतान् यथावत् परिकल्पयेत् ॥३४७ यदा सम्यग्गुणोपेतं परराष्ट्रं तदा व्रजेत् । परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥३४८ देवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता । तत्र देवमभिव्यक्तं पौरुषं पौर्वदेहिकम् ।।३४६ . केचिदेवात् स्वभावाच कालात् पुरुषकारतः । संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥३५० यथा ऐकेन चक्रेण न रथस्य गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिद्धपति ॥३५१ हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत् प्राप्तौ रक्षेत् सत्यं समाहितः ॥३५२ स्वाम्यमात्यो जनोदुर्ग कोषो दण्डस्तथैव च । मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥३५३ तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥३५४ स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना। सत्यसन्धेन शुचिना सुसहायेन धीमता ॥३५५ यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानुषम् । जगदानन्दयेत् सर्वमन्यथा तु प्रकोपयेत् ॥३५६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy