SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२६६ याज्ञवल्क्यस्मृतिः। प्रथमोपुण्यात् षड्भागमादत्त न्यायेन परिपालयन् । सर्वदानाधिकं यस्मात् प्रजानां परिपालनम् ॥३३५ चाटुतस्करदुवृत्तमहासाहसिकादिभिः । पीड्यमानाः प्रजा रक्षेत् कायस्थैश्च विशेषतः ॥३३६ अरक्ष्यमाणाः कुर्वन्ति यत् किश्चित् किल्विषं प्रजाः। तस्माच्च नृपतेरद्धं यस्माद् गृह्णात्यसौ करान् ॥३३७ ये राष्ट्राधिकृता स्तेषां चार्ज्ञात्वा विचेष्टितम् । साधून सम्पालयेद्राजा विपरीतांस्तु घातयेत् ।।३३८ उत्कोचजीविनो द्रव्यहीनान् कृत्वा प्रवासयेत् । सम्मानदानसत्कारैः श्रोत्रियान् वासयेत् सदा॥३३६ अन्यायेन नृपो राष्ट्रात् स्वकोषं योऽभिवर्द्ध येत् । सोऽचिराद्विगतश्रीको नाशमेति सवान्धवः ॥३४० प्रजापीड़नसन्तापसमुद्भूतो हुताशनः। राज्ञः कुलं श्रियं प्राणान् नादग्धा विनिवर्त्तते ॥३४१ य एव धम्मो नृपतेः स्वराष्ट्रपरिपालने । तमेव कृत्स्नमाप्नोति परराष्ट्र वशं नयन् ॥३४२ यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः ! तथैव परिपाल्योऽसौ यदा वशमुपागतः॥३४३ मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्य्याद्यथान्ये न विदुः कर्मणामाफलोदयात् ॥३४४ अरिमित्रमुदासीनोऽनन्तरस्तत् परः परः। क्रमशो मण्डलं चिन्त्यं सामादिभिरनुक्रमैः ॥३४५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy