________________
ऽध्यायः] व्यवहाराध्यायः सामान्यन्यायप्रकरणवर्णनम् । १२६९
ज्ञात्वापराधं देशश्च कालं बलमथापि वा। वयः कर्म च वित्तश्च दण्डं दण्डेषु पातयेत् ॥३६८ इति याज्ञवल्क्यीये धर्मशास्त्रे आचारोनाम प्रथमोऽध्यायः।
॥ द्वितीयोऽध्यायः॥
अथ व्यवहाराध्यायः।
तत्रादौ-सामान्यन्यायप्रकरणम्। व्यवहारान् नृपः पश्येद्विद्वद्भि ब्राह्मणैः सह । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥१ श्रुताध्ययनसम्पन्ना धर्मज्ञाः सत्यवादिनः। राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥२ अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु । सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥३
रागालोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः । सभ्याः पृथक् पृथक् दण्ड्या विवादाद् द्विगुणं (धनम्)दमम् ॥४
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥५ प्रत्यर्थिनोऽपतो लेख्यं यथावेदितमर्थिना । समामासतदाहोर्नामजात्यादिचिह्नितम् ॥६