________________
M
१२६४
याज्ञवल्क्यस्मृतिः। [प्रथमोपुरोहितञ्च कुर्वीत देवज्ञमुदितोदितम् । दण्डनीत्याश्च कुशलमथर्वाङ्गिरसे तथा ॥३१३ श्रौतस्मातक्रियाहेतोवृणुयादृत्विजस्तथा। . यहांश्चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान् ॥३१४ भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च । अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ।।३१५ अस्कन्नमव्ययश्चैव प्रायश्चित्तैरदूषितम् । अग्नेः सकाशाद्विप्रास्यं पूतं श्रेष्ठमिहोच्यते ॥३१६ धर्मेण लब्धुमीहेत लब्धं यत्नेन पालयेत्। पालितं वर्द्धयेन्नीत्या वृद्ध पात्रेषु निःक्षिपेत् ॥३१७ दद्याद् भूमि निबन्धं वा कृत्वा लेख्यञ्च कारयेत् । आगामिभक्षु)दनृपतिपरिज्ञानाय पार्थिवः ॥३१८ पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।। अभिलेख्यात्मनो वंश्यानात्मानञ्च महीपतिः ॥३१६ प्रतिग्रहपरीमाणं दानाच्छेदोपवर्णनम् । स्वहस्तकालसम्पन्न शासनं कारयेत् स्थिरम् ।।३२० रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् । तत्र दुर्गाणि कुर्वीत जनकोषात्मगुप्तये ॥३२१ तत्र तत्र च निष्णातानध्यक्षान् कुशलान् शुचीन् । प्रकुर्यादायकौन्तव्ययकर्मसु चोद्यतान् ॥३२२ नातः परतरो धर्मो नृपाणां यदुपार्जितम् (रणार्जितम्)। विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं तथा ।।३२३