________________
१२६०
याज्ञवल्क्यस्मृतिः। प्रथमोवसुरुद्रादितिसुताः पितरः श्राद्धदेवताः। प्रीणयन्ति मनुष्याणां पितॄन् श्राद्ध न तर्पिताः ॥२६६ आयुः प्रज्ञां धनं विद्यां स्वर्ग मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः॥२७०
अथ विनायकादिकल्पप्रकरणम् विनायकः कर्मविघ्नसिद्धयर्थ विनियोजित । . गणानामाधिपत्याय रुद्रेण ब्राह्मणा तथा ॥२७१ तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥२७२ काषायवाससश्चैव क्रव्यादांश्चाधिरोहति । अन्त्यजैगर्दभैरुष्ट्रः सहैकत्रावतिष्ठते ॥२७३ व्रजन्तञ्च तथात्मानं मन्यतेऽनुगतं परः। विमना विफलारम्भः संसीदत्यनिमित्ततः ॥२७४ तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी न च भरिमपत्यं नच गर्भिणी ॥२७५ आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा । वणिग्लाभं नाप्नोति कृषिञ्चैव कृषीबलः ॥२७६ स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् । गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥२७७ सर्वोषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा । भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥२७८ अश्वत्थानाद्गजस्थानाद्वल्मीकात् सङ्गमाद्धदात् । मृत्तिका रोचनां गन्धान गुग्गुलुच्चाप्सु निक्षिपेत् ॥R७६