SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ . ऽध्यायः] आचाराध्यायःश्राद्धप्रकरणवर्णनम्। १२५६ हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥२५८ ऐणरौरववाराहशाशैमांसैर्यथाक्रमम् । मासवृद्धचा हि तृप्यन्ति दत्तैरिह पितामहाः ॥२५६ खड्गामिषं महाशल्कं मधु मुन्यन्नमेव च । लोहामिषं महाशाकं मांसं वार्धाणसस्य च ॥२६० यद्ददाति गयास्थश्च सर्वमानन्त्यमुच्यते । तथा वर्षात्रयोदश्यां मघासु च न संशयः ।।२६१ कन्यां कन्यावेदिनश्च पशून मुख्यान् सुतानपि । द्यूतं कृषिञ्च वाणिज्यं द्विशफैकशफांस्तथा ॥२६२ ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके । ज्ञातिश्रेष्ठ्य सर्वकामानाप्नोति श्राद्धदः सदा ॥२६३ प्रतिपत्प्रभृतिष्वेतान् वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥२६४ स्वर्ग धपत्यमोजश्च शौय्यं क्षेत्रं बलं तथा । पुत्रान् श्रेष्ठ्यञ्च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥२६५ प्रवृत्तचक्रताञ्चैव वाणिज्यं प्रभुतां तथा। अरोगित्वं यशो वीतशोकतां परमां गतिम् ।।२६६ धनं विद्यां भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् । अश्वानायुश्च विधिवद् यः श्राद्धं सम्प्रयच्छति ॥२६७ कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् । आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः॥२६८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy