SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १२५८ [ प्रथमो याज्ञवल्क्यस्मृतिः । इत्युक्ता तु प्रिया वाचः प्रणिपत्य विसर्जयेत् । वाजे बाजे इति प्रीतः पितृपूर्वं विसर्जनम् ॥२४७ यस्मिंस्ते संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः । पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ २४८ प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् । ब्रह्मचारी भवेत्तान्तु रजनीं ब्राह्मणैः सह ॥ २४६ एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् । यजेत दधिकर्कन्धूमिश्रान् पिण्डान् यवैः क्रिया ॥२५० एकोद्दिष्टं दैवहीनमेकायैकपवित्रकम् । आवाहनामकरणरहितं ह्यपसव्यवत् ॥२५१ उपतिष्ठतामित्यक्षय्यस्थाने विप्रविसर्जने । अभिरम्यतामिति वदेद् ब्रूयुस्तेऽभिरताः स्म ह ॥२५२ गन्धोदकतिलैर्युक्तं कुर्यात् पात्रचतुष्टयम् । अर्ध्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ २५३ ये समानाइति द्वाभ्यां शेषं पूर्ववदाचरेत् । एतत् सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ॥ २५४ अर्वाक् सपिण्डीकरणं यस्य सम्वत्सराद्भवेत् । तस्याप्यन्न सोदकुम्भं दद्यात् सम्वत्सरं द्विजे ॥२५५ मृताहनि तु कर्त्तव्यं प्रतिमासन्तु वत्सरम् । प्रतिसम्वत्सरूचैव आद्यमेकादशेऽहनि ॥ २५६ पिण्डांस्तु गोऽज विप्रेभ्यो दद्यादनौ जलेऽपिवा । प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ २५७
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy