SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] आचाराध्याय श्राद्धप्रकरणवणनम् । १२५७ हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः। यथा लाभोपपन्नेषु रौप्येषु तु विशेषतः ।।२३६ दत्त्वान्नं पृथिवी पात्रमिति पात्राभिमन्त्रणम् । कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥२३७ . सव्याहृतिका गायत्री मधुवाता इति त्यृचम् । जप्त्वा यथा सुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः।।२३८ अन्नमिष्टं हविष्यश्च दद्यादक्रोधनोऽत्वरः। आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपन्तथा ॥२३६ अन्नमादाय तृप्ताः स्व शेषं चैवानुमन्य च । तदन्नं विकिरेद् भूमौ दद्याच्चापः सकृत् सकृत् ॥२४० सर्वमन्नमुपादाय सतिलं दक्षिणामुखः । उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवत् ॥२४१ मातामहानामप्येवं दद्यादाचमनं ततः। स्वस्ति वाच्यं ततः कुर्यादक्षय्योदकमेव च ॥२४२ दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् । वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ।।२४३. ब्रूयुरस्तु स्वधेत्येवं भूमौ सिञ्चेत्ततो जलम् । विश्वेदेवाश्च प्रीयन्तां विप्रैश्चोक्त इदं जपेत् ॥२४४ दातारो नोऽभिवर्द्धन्तां वेदा:सन्ततिरेव च । श्रद्धा च नो माव्यगमद्वहु देयञ्च नोऽस्त्विति ॥२४५ अन्नश्च नो बहु भवेदतिथींश्च लभेमहि । याचितारश्च नः सन्तु मा च याचिष्म कश्चन ॥२४६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy