SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १२५६ याज्ञवल्क्यस्मृतिः। [प्रथमोअपराहे समभ्यर्च स्वागतेनागतांस्तु तान् । पवित्रपाणिराचान्तानासनेषूपवेशयेत् ।।२२६ युग्मान् देवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च । परिश्रिते शुचौ देशे दक्षिणाप्लवने तथा ॥२२७ द्वौ दैवे प्राक्त्रयः पित्र्ये उदगेकैकमेव वा। मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ।।२२८ पाणिप्रक्षालनं दत्त्वा विष्टरार्थ कुशानपि । आवाहयेदनुज्ञातो विश्वेदेवास इत्युचा ।।२२६ यवैरन्ववकीर्याथ भाजने सपवित्रके। शन्नो देव्या पयः क्षिप्त्वा यवोऽसीति यवां स्तथा ॥२३० या दिव्या इति मन्त्रेण हस्तेष्वयं विनिःक्षिपेत् । दत्त्वोदकं गन्धमाल्यं धूपं वासः सदीपकम् ॥२३१ तथाच्छादनदानञ्च करशौचार्थमम्बु च । अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम् ॥ द्विगुणांस्तु कुशान् दत्त्वा ह्युशन्तस्तेत्युचा पितृन् ॥२३२ आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः । यवार्थास्तु तिलैः कार्याः कुर्यादादिपूर्ववत् ॥२३३. दत्त्वाय॑संस्रवां स्तेषां पात्रे कृत्वा विधानतः । पितृभ्यः स्थानमसीति न्युजं पात्रं करोत्यधः ।।२३४ अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत्॥२३५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy