SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १२४४ [ प्रथमो याज्ञवल्क्यस्मृतिः । क्षत्रिया मागधं वैश्याच्छूद्रात् क्षत्तारमेव तु । शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥६४ माहिष्येण करण्यान्तु रथकारः प्रजायते । असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ ६५ जात्युत्कर्षा युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा । व्यत्यये कर्मणां साम्यं पूर्ववचोत्तराधरम ||६६ अथ गृहस्थधर्मप्रकरणवर्णनम् । कर्म स्मात्तं विवाहानौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वाऽपि श्रौतं वैतानिकाग्निषु ॥८७ शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः । प्रातः सन्ध्यामुपासीत दन्तधावनपूर्वकम् ॥८८ हुत्वाग्नीन् सूर्य देवत्यान् जपेन्मन्त्रान् समाहितः। वेदार्थानधिगच्छेत शास्त्राणि विविधानि च ॥६६ उपेयादीश्वरचैव योगक्षेमार्थसिद्धये । स्नात्वा देवान् पितृचैव तर्पयेदये तथा ॥ १०० वेदाथर्वपुराणानि सेतिहासानि शक्तितः । जपयज्ञप्रसिद्वयर्थ विद्याश्वाध्यात्मिकीं जपेत् ॥ १०१ बलिकर्मस्वधा होमस्वध्यायातिथिसत्क्रियाः । भूतपित्रमर ब्रह्ममनुष्याणां महामखाः ॥ १०२ देवेभ्यश्च हुतादन्नाच्छेषाद् भूतवलि हरेत् । अन्नं भूमौ श्वचण्डाल वायोभ्यश्चैव निक्षिपेत् ॥ १०३ अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् । स्वाध्यायमन्वहं कुर्यात् न पचेदन्नमात्मनः ॥ १०४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy