SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ज्यायः] आचाराध्यायः विवाहप्रकरणवर्णनम्। १२४१ आसुरो द्रविणादानाद् गान्धर्वः समयान्मिथः। राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥६१ पाणिर्माद्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम् । वश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ॥६२ पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः॥६३ अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृतौ। गम्यन्त्वभावे दातृणां कन्या कुर्यात् स्वयम्वरम् ॥६४ सकन् प्रदीयते कन्या हरंस्तां चौरदण्डभाक् । दत्तामपि हरेस् पूर्वाच्छ्रे यांश्चेद्वर आव्रजेत् ॥६५ अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् । अदुष्टाञ्च त्यजन् कन्यां दूषयंश्च मृषाशतम् ॥६६ अक्षता वा क्षता चैव पुन ः संस्कृता पुनः । स्वैरिणी या पतिं हित्वा सवर्ण कामतः श्रयेत् ॥६७ अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया। सपिण्डो वा सगोत्रो वा घृताभ्यक्त भृतावियात् ॥६८ आगर्भ सम्भवाद् गच्छेत् पतितस्त्वन्यथा भवेत् । अनेन विधिना जातः क्षेत्रजः स भवेत् सुतः ॥६६ हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामध शय्यां वासयेद् व्यभिचारिणीम् ।।७० सोमः शौचं ददौ तासां गन्धर्वाश्च शुभां गिरम् । पावकः सर्वभक्ष्यत्वं मेध्या वै योषितो ह्यतः ॥७१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy