________________
१२३८ याज्ञवल्क्यस्मृतिः ।
[प्रथमोकृतज्ञोऽद्रोही मेधावी शुचिः(कुल्योऽनसूयका):कल्याणसुचकाः ।
अध्याप्याः धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ।।२८ दण्डाजिनोपवीतानि मेखलाञ्चैव धारयेत् । ब्राह्मणेषु चरे क्षमनिन्द्येष्वात्मवत्तये ।।२६ आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्मणक्षत्रियविशां भैक्षचा यथाक्रमम् ॥३० कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्खनुज्ञया । आपोशानक्रियापूर्व सत्कृत्यान्नमकुत्सयन् ॥३१ ब्रह्मचर्ये स्थितोनैक मन्नमद्यादनापदि । ब्राह्मणः काममश्नीयाच्छ्राद्ध व्रतमपीडयन् ॥३२ मधुमासाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लीलपरिवादांश्च वर्जयेत् ॥३३ स गुरुयः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥३४ एकदेशमुपाध्याय ऋत्विग यज्ञकृदुच्यते। एते मान्या यथा पूर्वमेभ्यो माता गरीयसी ॥३५ प्रतिवेदं ब्रह्मचय्यं द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे ॥३६ आ षोडशाब्दाद् द्वाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मझत्त्रविशा काल औपनायनिकः परः ॥३७ अत ऊद्धं पतन्त्येते सर्वधर्मवहिष्कृताः। सावित्रीपतिता प्रात्या प्रात्यस्तोमाइते क्रतोः॥३८