________________
६३८
पराशरस्मृतिः।
[ तृतीयोन तेषामशुभं किश्चिद्विजानां शुभकर्मणि । जलावगाहनात्तेषां शुद्धिः स्मृतिभिरीरिता ॥४७ अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा । स्नात्वा चैव तु स्पृष्ट्राग्नि घृतं प्राश्य विशुद्धयति ॥४८ क्षत्रियं मृतमज्ञानाद्ब्राह्मणो योऽनुगच्छति । एकाहमशुचिर्भवा पञ्चगव्येन शुद्धथति ॥४६ शवञ्च वैश्यमज्ञानाद्ब्राह्मगो . योऽनुगच्छति। कृत्वा शौचं द्विरात्रश्च प्राणायामान षड़ाचरेत् ॥५० प्रेतीभूतन्तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । नयन्तमनुगच्छेत त्रिरात्रमशुचिर्भवेत् ।।५१ त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्धयति ॥५२ विनिर्वयं यदा शूद्रा उदकान्त मुपस्थिताः । द्विजैस्तदानुगन्तव्या इति धर्मविदोविधिः ॥५३ तस्माद्विजो मृतं शूद्रं न स्पृशेन च दाहयेत् । दृष्टे सूर्यावलोकेन शुद्धिरेषा पुरातनी ॥५४
इति पाराशरे धर्मशास्त्रे तृतीयोऽध्यायः॥