________________
ऽध्यायः].
प्रायश्चित्तवर्णनम् ।
६३६
॥ चतुर्थोऽध्यायः ॥ अनेकविधप्रकरणप्रायश्चित्तम् । अतिमानादतिक्रोधात् स्नेहाद्वा यदिवा भयात् । उद्बध्नीयात् स्त्री पुमान् वा गतिरेषा विधीयते ॥१ पूयशोणितसंपूर्ण अन्धे तमसि मजति । षष्टिं वर्षसहस्राणि नरकं प्रतिपद्यते । नाशौचं नोदकं नाग्निं नाश्रुपातञ्च कारयेत् ।।२ वोढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा । तप्तकृच्छ्रण शुद्धयन्तीत्येवमाह प्रजापतिः ॥३ गोभिर्हतं तथोबद्धं ब्राह्मणेन तु घातितम् । संस्पृशन्ति तु ये विप्रा वोढारश्चाग्निदाश्च ये ॥४ अन्येऽपि वानुगन्तारः पाशच्छेदकराश्च ये । तप्तकृच्छ्रण शुद्धथन्ति कुर्युर्ब्राह्मणभोजनम् ।।५ अनडुत्सहितां गाश्च दद्युर्विप्राय दक्षिणाम् । त्र्यहमुष्णं पिवेदापस्यहमुष्णं पयः पिवेत् । व्यहमुग्णं घृतं पीत्वा वायुभक्षो दिनत्रयम् ॥६ यो वै समाचरेद्विप्रः पतितादिष्वकामतः । पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा ॥७ मासाद्धं मासमेकं वा मासद्वयमथापिवा । अब्दार्द्ध मब्दमेकं वा तवं चैव तत्समः ।।८