________________
६४०
पराशरमृतिः।
चतुर्थीत्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रमाचरेत्।। तृतीये चैव पक्षे तु कृच्छ् सान्तपनं चरेत् ॥ चतुर्थे दशरात्रं स्यात् पराकः पञ्चमे मतः । कुर्याच्चान्द्रायणं षष्ठे सप्तमे त्वैन्दवद्वयम ॥१० शुद्धयर्थमष्टमे चैव षण्मासात् कृच्छ्रमाचरेत् । पक्षसंख्याप्रमाणेन सुवर्णान्यपि दक्षिणा ॥११ ऋतुस्नाता तु या नारी भर्तारं नोपसर्पति । सा मृता नरकं याति विधवा च पुनः पुनः ॥१२ भृतौ स्नातान्तु यो भाऱ्यां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥१३ अदुष्टापतितां भा- यौवने यः परित्यजेत् । सप्तजन्म भवेत् स्त्रीत्वं वैधव्यञ्च पुनः पुनः॥१४ दरिद्रं व्याधितं मूर्ख भर्तारं या न मन्यते । सा मृता जायते व्याली वैधव्यञ्च पुनः पुनः ॥१५ ओघवाताहतं वीजं यथा क्षेत्रे प्ररोहति । क्षेत्री तल्लभते वीजं न वीजी भागमर्हति ॥१६ तद्वत् परस्त्रियाः पुत्रौ द्वौ सुतौ कुण्डगोलको। पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥१७ औरसः क्षेत्रजश्चैव दत्तः कृत्रिमकः सुतः । दद्यान्माता पिता वापि स पुत्रो दत्तको भवेत् ॥१८ परिवित्तिः परीवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपश्चमाः ॥१६