________________
ऽध्यायः] अनेकविधप्रकरणप्रायश्चित्तम्।
दाराग्निहोत्रसंयोगं यः कुर्यादग्रजे सति । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥२० द्वौ कृच्छ्रो परिवित्तेस्तु कन्यायाः कृच्छू एव च । कृच्छातिकृच्छौ दातुश्च होता चान्द्रायणञ्चरेत् ॥२१ कुजवामनषण्डेषु गद्गदेषु जड़ेषु च । जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥२२ पितृव्यपुत्रः सापल्यः परनारीसुतस्तथा । दाराग्निहोत्रसंयोगे न दोषः परिवेदने ॥२३ ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव चिन्तयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥२४ नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो न विद्यते ॥२५ मृते भर्तरि या नारी ब्रह्मचर्ये व्यवस्थिता। सा मृता लभते स्वर्ग यथा सद् ब्रह्मचारिणः ॥२६ तिस्रः कोट्यर्द्धकोटी च यानि रोमाणि मानुषे । तावत् कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥२७ व्यालग्राही यथा व्यालं विलादुद्धरते बलात् । एवमुद्धृत्य भर्तारं तेनैव सह मोदते ॥२८
इति पाराशरे धर्मशास्त्रे चतुर्थोऽध्यायः ॥
४१