SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पराशरस्मृतिः। [पञ्चमो ॥ अथ पञ्चमोऽध्यायः ॥ प्रायश्चित्तवर्णनम्। श्ववृकाभ्यां शृगालाधैर्यदि दष्टस्तु ब्राह्मणः । स्नात्वा जपेत गायत्री पवित्रां वेदमातरम् ॥१ गवां शृङ्गोदके स्नातो महानद्यास्तु सङ्गमे । समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत् ॥२ वेदविद्याव्रतस्नातः शुना दष्टस्तु ब्राह्मणः । स हिरण्योड़के स्नात्वा घृतं प्राश्य विशुध्यति ॥३ सत्रतस्तु शुना दृष्टस्त्रिरात्रं समुपोषितः । घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ।।४ अवतः सवतो वापि शुना दो भवेद्दिजः। प्रणिपत्य भवेन पूतो विपश्चानुनिरीक्षितः ।।५ शुना नातावलीढस्य नखे विलिखितस्य च । अद्भिः प्रक्षाल नाच्छुद्धिरग्निना चोपचूलनम् ॥६ शुना च ब्राह्मणी दष्टा जम्बुकेन वृकेण वा । उदितं सोमनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ।।७ कृष्णपक्षे यदा सोमो न दृश्येत कदाचन । यां दिशं वूजते सोमम्तां दिशञ्चावलोकयेत् ।।८ असन्राह्मणके ग्राम शुना दृष्टगत ब्राह्मणः । वृषं प्रदक्षिणीकृत्य मद्यः स्नानाद्विशुध्यति ।। चाण्डालेन वपाकेन गोभिर्विप्रैहतो यदि ।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy