SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्रौताग्निहोत्रसंस्कारवर्णनम्। ६४३ आहिताग्निमृतो विप्रो विषणात्महतो यदि । दहेत्तं ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम् ॥१० स्पृष्ट्वा चोय च दग्धा च सपिण्डेषु च सर्वथा । प्राजापत्यं चरेत् पश्चाद्विप्राणामनुशासनात् ॥११ दग्ध्वास्थीनि पुनर्गृह्य क्षीरैः प्रक्षालयेद्विजः । पुनईहेत् स्वकाग्नौ तन्मन्त्रेण च पृथक् पृथक् ॥१२ आहिताग्निजिः कश्चित् प्रवसन् कालचोदितः । देहनाशमनुप्राप्तस्तस्याग्निवर्त्तते गृहे ॥१३ श्रौताग्निहोत्रसंस्कारः श्रूयतामृषिसत्तमाः ! ।। कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम् ।।१४ षट् शतानि शतञ्चैव पलाशानाञ्च वृन्तकम् । चत्वारिंशच्छिरे दद्यात् षष्टिं कण्ठे विनिर्दिशेत् ॥१५ बाहुभ्याञ्च शतं दद्यादङ्गुलीषु दशैव तु । शतञ्चोरसि संदद्यात् त्रिंशचैवोदरे न्यसेत् ॥१६ अष्टौ वृषणयोर्दद्यात् पञ्च मेढ़े च विन्यसेत् । एकविंशतिमूरुभ्यां जानुजङ्घ च विंशतिम् ।।१७ पादाङ्गुल्योः शतार्द्ध ञ्च पात्राणि च तथा न्यसेत् । शम्यां शिश्ने विनिःक्षिय्य अरणी वृषणे तथा ॥१८ जुहूं दक्षिणहस्तेन वामहस्ते तथोपसत् । कर्णेचोलूखलं दद्यात् पृष्ठे च मुषलं ततः॥१६ निक्षिप्योरसि दृशदं तण्डुलाज्यतिलान्मुखे । श्रौत्रे च प्रोक्षणीं दद्यादाज्यस्थालीश्च चक्षुपोः ।।२०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy